|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.52. अध्यायः 052
Mahabharata - Drona Parva - Chapter Topics
युधिष्ठिराश्वासनाय व्यासेन तम्प्रति अकम्पनोपाख्यानकथनोपक्रमः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-52-0x(4380)(46791)
एवं विलपमाने तु कुन्तीपुत्रे युधिष्ठिरे।
कृष्णद्वैपायनस्तत्र आजगाम महानृषिः॥ 7-52-1(46792)
अथ दृष्ट्वा महात्मानं पाण्डुपुत्रो युधिष्ठिरः।
युक्तासनो दीनमनाः पूजां चक्रे महात्मनः॥ 7-52-2(46793)
अर्चयित्वा यथान्यायमुपविष्टं युधिष्ठिरः।
अब्रवीच्छोकसन्तप्तो भ्रातुः पुत्रवधेन च॥ 7-52-3(46794)
अधर्मयुक्तैर्बहुभिः परिवार्य महारथैः।
युध्यमानो महेष्वासैः सौभद्रो निहतो रणे॥ 7-52-4(46795)
बालश्च बालबुद्धिश्च वीरश्च परवीरहा।
अनुपायेन सङ्ग्रामे युध्यमानो विनाशितः॥ 7-52-5(46796)
मया प्रोक्तः स सङ्ग्रामे द्वारं सञ्जनयस्व नः।
प्रविष्टेऽभ्यन्तरे तस्मिन्सैन्धवेन निवारिताः॥ 7-52-6(46797)
ननु नाम समं युद्धमेष्टव्यं युद्धजीविभिः।
इदं चैवासमं युद्धमीदृशं यत्कृतं परैः॥ 7-52-7(46798)
तेनास्मि भृशसन्तप्तः शोकबाष्पसमाकुलः।
शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः॥ 7-52-8(46799)
सञ्जय उवाच। 7-52-9x(4381)
तं तथा विलपन्तं वै शोकव्याकुलमानसम्।
उवाच सान्त्वयन्व्यासो युधिष्ठिरमिदं वचः॥ 7-52-9(46800)
व्यास उवाच। 7-52-10x(4382)
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद।
व्यसनेषु न मुह्यन्ति त्वादृशा भरतर्षभ॥ 7-52-10(46801)
स्वर्गमेष गतः शूरः शत्रून्हत्वा बहून्रणे।
अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः॥ 7-52-11(46802)
अनतिक्रमणीयो वै विधिरेष युधिष्ठिर।
देवदानवगन्धर्वान्मूत्युर्हरति भारत॥ 7-52-12(46803)
युधिष्ठिर उवाच। 7-52-13x(4383)
इमे वै पृथिवीपालाः शेरते पृथिवीतले।
निहताः पृतनामध्ये मृतसंज्ञा महाबलाः॥ 7-52-13(46804)
नागायुतबलाश्चान्ये वायुवेगबलास्तथा।
त एते निहताः सङ्ख्ये तुल्यरूपा नरैर्नराः॥ 7-52-14(46805)
नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित्।
विक्रमेणोपसम्पन्नास्तपोबलसमन्विताः॥ 7-52-15(46806)
जेतव्यमिति चान्योन्यं येषां नित्यं हृदि स्थितम्।
अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः॥ 7-52-16(46807)
मृता इति च शब्दोयं वर्तते च ततोऽर्थवत्।
इमे मृता महीपालाः प्रायशो भीमविक्रमाः॥ 7-52-17(46808)
निश्चेष्टा निरभीमानाः शूराः शत्रुवशंगताः।
राजपुत्राश्च संरब्धा वैश्वानरमुखं गताः॥ 7-52-18(46809)
अत्र मे संशयः प्राप्तः कुतः संज्ञा मृता इति।
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिमाः प्रजाः।
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह॥ 7-52-19(46810)
सञ्जय उवाच। 7-52-20x(4384)
तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम्।
आश्वासनमिदं वाक्यमुवाच भगवानृषिः॥ 7-52-20(46811)
व्यास उवाच। 7-52-21x(4385)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
अकम्पनस्य कथितं नारदेन पुरा नृप॥ 7-52-21(46812)
स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम्।
अप्रसह्यतमं लोके प्राप्तवानिति नः श्रुतम्॥ 7-52-22(46813)
तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम्।
ततस्त्वं मोक्ष्यसे दुःखात्स्नेहबन्धनसंश्रयात्॥ 7-52-23(46814)
समस्तपापराशिघ्नं शृणु कीर्तयतो मम।
धन्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम्॥ 7-52-24(46815)
पवित्रमरिसङ्घघ्नं पङ्गलानां च मङ्गलम्।
यथैव वेदाध्ययनमुपाख्यानमिदं तथा॥ 7-52-25(46816)
श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः।
पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा॥ 7-52-26(46817)
पुरा कृतयुगे तात आसीद्राजा ह्यकम्पनः।
स शत्रुवशमापन्नो मध्ये सङ्ग्राममूर्धनि।
`योधयामास बलवान्बद्धश्चासीदकम्पनः'॥ 7-52-27(46818)
तस्य पुत्रो हरिर्नाम नारायणसमो बले।
श्रीमान्कृतास्त्रो मेधावी युधि शक्रोपमो बली॥ 7-52-28(46819)
`स दृष्ट्वा पितरं युद्धे तदवस्थं महाद्युतिः।
अचिन्तयित्वा मरणं शत्रुमध्यं ततोऽविशत्॥ 7-52-29(46820)
स शत्रुभिः परिवृतो बहुधा रणमूर्धनि।
योधयामास तान्सर्वान्सर्वास्त्रकुशलो बली॥ 7-52-30(46821)
वर्षन्बाणसहस्राणि शत्रुष्वमितविक्रमः।
पदातिरथनागाश्वान्प्रममाथ महाबलः॥ 7-52-31(46822)
स शरैराचितश्चक्रैर्गदाभिर्मुसलैरपि।
मृद्गन्रथसहस्राणि पदातीन्वाजिवारणान्॥ 7-52-32(46823)
परानीकं विभिद्याजौ मोक्षयित्वा च तं नृपम्।
पुनरेवाकरोद्युद्धं शत्रुमध्यगतो बली॥ 7-52-33(46824)
ततस्ते रथिनः सर्वे समेत्य पुनराहवे।
जघ्नुस्तं परिवार्यैकं तोमरैरिव कुञ्जरम्'॥ 7-52-34(46825)
स कर्म दुष्करं कृत्वा सङ्ग्रामे शत्रुतापनः।
शत्रुभिर्निहतः सङ्ख्ये पृतानायां युधिष्ठिर॥ 7-52-35(46826)
द्विषद्भिर्निहतं दृष्ट्वा प्रियं पुत्रमकम्पनः।
अमर्षजनितक्रोध आहवात्सहसाऽऽगतः॥ 7-52-36(46827)
स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः।
शोचन्नहनि रात्रौ च नालभत्सुखमात्मनः॥ 7-52-37(46828)
तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम्।
आजगामाथ देवर्षिर्नारदोऽस्य समीपतः॥ 7-52-38(46829)
स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम्।
पूजयित्वा यथान्यायं कथामकथयत्तदा॥ 7-52-39(46830)
तस्य सर्वं समाचष्ट यथावृत्तं युधिष्ठिर।
शत्रुभिर्विजयं सङ्ख्ये पुत्रस्य च वधं तथा॥ 7-52-40(46831)
अकम्पन उवाच। 7-52-41x(4386)
मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः।
शत्रुभिर्बहुभिः सङ्ख्ये पराक्रम्य हतो बली॥ 7-52-41(46832)
शृणु मे प्राणिनां चापि मृत्युः प्रभवते किल।
क एष मृत्युर्भगवन्किंवीर्यबलपौरुषः।
एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर॥ 7-52-42(46833)
व्यास उवाच। 7-52-43x(4387)
तस्य तद्वचनं श्रुत्वा नारदो वरदः प्रभुः।
आख्यानमिदमाचष्ट पुत्रशोकापहं महत्॥ 7-52-43(46834)
नारद उवाच। 7-52-44x(4388)
शृणु राजन्महाबाहो आख्यानं बहुविस्तरम्।
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप॥ 7-52-44(46835)
प्रजाः सृष्टा तदा ब्रह्मा आदिसर्गे पितामहः।
असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः॥ 7-52-45(46836)
तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव।
चिन्तयन्न ह्यसौ देव संहारं वसुधाधिप॥ 7-52-46(46837)
तस्य रोषान्महाराज मुखेभ्योऽग्निरजायत।
तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता॥ 7-52-47(46838)
ततो दिवं भुवं चैव ज्वालामालासमाकुलम्।
चारचरं जगत्सर्वं ददाह भगवान्प्रभुः॥ 7-52-48(46839)
ततो हतानि भूतानि चराणि स्थावराणि च।
महता क्रोधवेगेन त्रासयन्निव वीर्यवान्। 7-52-49(46840)
ततो रुद्रो जटी स्याणुर्निशाचरपतिर्हरः।
जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम्॥ 7-52-50(46841)
तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया।
अब्रवीत्परमो देवो ज्वलन्निव महामुनिः॥ 7-52-51(46842)
किं कर्म कामं कामार्ह कामाज्जातोऽसि पुत्रक।
करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यदिच्छसि॥ ॥ 7-52-52(46843)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि द्विपञ्चाशत्तमोऽध्यायः॥ 52 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-52-6 द्वारं सञ्जनयस्वेति मया उक्त इति सम्बन्धः। निवारितः तमनुप्रविशन्त इति शेषः॥ 5-52-19 कस्य मृत्युः क इति शेषः॥ 5-52-47 खेभ्य इति पाठे श्रोत्रादिच्छिद्रेभ्यः॥ 5-52-52 द्विपञ्चाशत्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|